वांछित मन्त्र चुनें

रथा॑नां॒ न ये॒३॒॑ऽराः सना॑भयो जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः । व॒रे॒यवो॒ न मर्या॑ घृत॒प्रुषो॑ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभ॑: ॥

अंग्रेज़ी लिप्यंतरण

rathānāṁ na ye rāḥ sanābhayo jigīvāṁso na śūrā abhidyavaḥ | vareyavo na maryā ghṛtapruṣo bhisvartāro arkaṁ na suṣṭubhaḥ ||

पद पाठ

रथा॑नाम् । न । ये । अ॒राः । सऽना॑भयः । जि॒गी॒वांसः॑ । न । शूराः॑ । अ॒भिऽद्य॑वः । व॒रे॒ऽयवः॑ । न । मर्याः॑ । घृ॒त॒ऽप्रुषः॑ । अ॒भि॒ऽस्व॒र्तारः॑ । अ॒र्कम् । न । सु॒ऽस्तुभः॑ ॥ १०.७८.४

ऋग्वेद » मण्डल:10» सूक्त:78» मन्त्र:4 | अष्टक:8» अध्याय:3» वर्ग:12» मन्त्र:4 | मण्डल:10» अनुवाक:6» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये) जो जीवन्मुक्त विद्वान् (रथानाम्-अराः-न) रथ के चक्रों की शलाकाओं के समान (सनाभयः) एक बन्धनवाले एक उपास्यवाले (जिगीवांसः) जयशील (शूराः-न) शूरवीरों जैसे (अभिद्यवः) तेजस्वी (वरेयवः-न मर्याः) वरणीय परमात्मा में मिलनेवालों के समान सज्जन (घृतप्रुषः) तेज के प्रेरक (अभिस्वर्तारः) वक्ता जन (अर्कं न-सुष्टुभः) अर्चनीय परमात्मा की स्तुति करनेवालों के समान हैं, उनकी सङ्गति करनी चाहिए ॥४॥
भावार्थभाषाः - जो जीवन्मुक्त एक उपास्यवाले, पापों पर विजय पानेवाले, तेजस्वी वक्ता हैं, उनकी सङ्गति करनी चाहिए ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये रथानां न-अराः सनाभयः) ये जीवन्मुक्ता विद्वांसो रथस्य चक्राणामरा इव समानबन्धनाः-एकोपास्यवन्तः (जिगीवांसः शूराः न अभिद्यवः) जयशीलाः शूरा इव तेजस्विनः (वरेयवः-न मर्याः-घृतप्रुषः) वरणीये परमात्मनि मिश्रयितारस्सज्जनास्तेजः-प्रेरकाः (अभिस्वर्तारः-अर्कं न सुष्टुभः) अर्चनीयं परमात्मानं वक्तुमुपदेष्टुं शीलं येषां ते तथाभूता इव सुष्ठुस्तोतारः “सुष्टुभः शोभनस्तोता” [ऋ० ५।७५।४ दयानन्दः] ॥४॥